|
|
 |
 |
|
|
१६आश्रमवासिकपर्व.jpg)
॥ श्रीः ॥
16.17. अध्यायः 017
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
धृतराष्ट्रस्य वनप्रस्थानसमये विदुरसंजयाभ्यामपि वनवासाय तेन सह प्रस्थानम्॥ 1 ॥ तथा कुन्त्यापि युधिष्ठिरादिभिर्बहुधा प्रार्थनाभिः प्रतिषेधनेपि तत्समाश्वासनपूर्वकं गान्धार्या सह वनंप्रति प्रस्थानम्॥ 2 ॥
Mahabharata - AshramaVasika Parva - Chapter Text
धृतराष्ट्रस्य वनप्रस्थानसमये विदुरसंजयाभ्यामपि वनवासाय तेन सह प्रस्थानम् ॥ 1 ॥ तथा कुन्त्यापि युधिष्ठिरादिभिर्बहुधा प्रार्थनाभिः प्रतिषेधनेपि तत्समाश्वासनपूर्वकं गान्धार्या सह वनंप्रति प्रस्थानम्॥ 2 ॥
16-17-0(97651)
वैशम्पायन उवाच। 16-17-0x(8045)
ततः प्रासादहर्म्येषु वसुधायां च पार्थिव।
नारीणां च नराणां च निःस्वनः सुमहानभूत्॥ 16-17-1(97652)
स राजा राजमार्गेण नृनारीसंकुलेन च।
कथञ्चिन्निर्ययौ धीमान्वेपमानः कृताञ्जलिः॥ 16-17-2(97653)
स वर्धमानद्वारेणि निर्ययौ गजसाह्वयात्।
विसर्जयामास च तं जनौघं स मुहुर्मुहुः॥ 16-17-3(97654)
वनं गन्तुं च विदुरो राज्ञा सह कृतक्षणः।
संजयश्च महामात्रः सूतो गावल्गणिस्तथा॥ 16-17-4(97655)
ककृपं निवर्तयामास युयुत्सुं च महारथम्।
धृताराष्ट्रो महीपालः परिदाप्य युधिष्ठिरे॥ 16-17-5(97656)
निवृत्ते पौरवर्गे च राजा सान्तःपुरस्तदा।
धृतराष्ट्राभ्यनुज्ञातो निवर्तितुमियेष ह॥ 16-17-6(97657)
सोब्रवीन्मातरं कुन्तीमुपेत्य भरतर्षभ॥
अहं राजानमन्विष्ये भवती विनिवर्तताम्॥ 16-17-7(97658)
वधूपरिवृता राज्ञि नगरं गन्तुमर्हसि।
राजा यात्वेष धर्मात्मा तपसे कृतनिश्चयः॥ 16-17-8(97659)
इत्युक्ता धर्मराजेनि बाष्पव्याकुललोचना।
जगामैव तदा कुन्ती गान्धारीं परिगृह्य ह॥ 16-17-9(97660)
कुन्त्युवाच। 16-17-10x(8046)
सहदेवे महाराज माऽप्रसादं कृथाः क्वचित्।
एष मामनुरक्तो हि राजंस्त्वां चैव सर्वदा॥ 16-17-10(97661)
कर्णं स्मरेथाः सततं सङ्ग्रामेष्वपलायिनम्।
अवकीर्णो हि स मया वीरो दुष्प्रज्ञया तदा॥ 16-17-11(97662)
आयसं हृदयं नूनं मन्दाया मम पुत्रक।
यत्सूर्यजमपश्यन्त्याः शतधा न विदीर्यते॥ 16-17-12(97663)
एवं गते तु किं शक्यं मया कर्तुमरिंदम।
मम दोषोऽयमत्यर्थं ख्यापितो यन्न सूर्यजः॥ 16-17-13(97664)
तन्निमित्तं महाबाहो दानं दद्यास्त्वमुत्तमम्।
सदैव भ्रातृभिः सार्धं सूर्यजस्यारिमर्दन॥ 16-17-14(97665)
द्रौपद्याश्च प्रिये नित्यं स्थातव्यमरिकर्शन।
भीमसेनोऽर्जुनश्चैव नकुलश्च कुरूद्वह॥ 16-17-15(97666)
समाधेयास्त्वया राजंस्त्वय्यद्य कुलधूर्गता।
श्वश्रूश्वशुरयोः पादाञ्शुश्रूषन्ती वने त्वहम्।
गान्धारीसहिता वत्स्ये तापसी मलपङ्किनी॥ 16-17-16(97667)
वैशम्पायन उवाच। 16-17-17x(8047)
एवमुक्तः स धर्मात्मा भ्रातृभिः सहितो वशी।
विषादमगमद्धीमान्न च किञ्चिदुवाच ह॥ 16-17-17(97668)
मुहूर्तमिव तु ध्यात्वा धर्मराजो युधिष्ठिरः।
उवाच मतारं दीनश्चिन्ताशोकपरायणः॥ 16-17-18(97669)
किमिदं ते व्यवसितं नैवं त्वं वक्तुमर्हसि।
न त्वामभ्यनुजानामि प्रसादं कर्तुमर्हसि॥ 16-17-19(97670)
व्यचोदयः पुराऽस्माकमुत्साहं शुभदर्शने।
विदुलाया वचोभिस्त्वं नास्मान्संत्यक्तुमर्हसि॥ 16-17-20(97671)
निहत्य पृथिवीपालान्राज्यं प्राप्तमिदं मया।
तव प्रज्ञामुपश्रुत्य वासुदेवान्नरर्षभात्॥ 16-17-21(97672)
क्व सा बुद्धिरियं चाद्य भवत्या या श्रुता मया।
क्षत्रधर्मे स्थितं त्यक्त्वा न प्रयातुमिहार्हसि॥ 16-17-22(97673)
अस्मानुत्सृज्य राज्यं च स्नुषाहीना यशस्विनि।
कथं वत्स्यसि दुर्गेषु वनेष्वद्य प्रसीद मे॥ 16-17-23(97674)
इति बाष्पकला वाचः कुन्ती पुत्रस्य शृण्वती।
जगामैवाश्रुपूर्णाक्षी भीमस्तामिदमब्रवीत्॥ 16-17-24(97675)
यदा राज्यमिदं कुन्ति भोक्तव्यं पुत्रनिर्जितम्।
प्राप्तव्या राजधर्माश्च तदेयं ते कुतो मतिः॥ 16-17-25(97676)
किं वयं कारिताः पूर्वं भवत्या पृथिवीक्षयम्।
कस्य हेतोः परित्यज्य वनं गन्तुमभीप्ससि॥ 16-17-26(97677)
वनाच्चापि किमानीता भवत्या बालका वयम्।
दुःखशोकसमाविष्टौ माद्रीपुत्राविमौ तथा॥ 16-17-27(97678)
प्रसीद मातर्मा गास्त्वं वनमद्य यशस्विनि।
श्रियं यौधिष्ठिरीं मातर्भुङ्क्ष्व पार्थबलार्जिताम्॥ 16-17-28(97679)
इति सा निश्चितैवाशु वनवासकृततक्षणा।
लालप्यतां बहुविधं पुत्राणां नाकरोद्वचः॥ 16-17-29(97680)
द्रौपदी चान्वयाच्छ्वश्रूं विषष्णवदना तदा।
वनवासाय गच्छन्तीं रुदती भद्रया सह॥ 16-17-30(97681)
सा पुत्रान्रुदतः सर्वान्मुहुर्मुहुरवेक्षती।
जगामैव महाप्राज्ञा वनाय कृतनिश्चया॥ 16-17-31(97682)
अन्वयुः पाण्डवास्तां तु सभृत्यान्तःपुरास्तथा।
ततः प्रमृज्य साऽश्रूणि पुत्रान्वचनमब्रवीत्॥ ॥ 16-17-32(97683)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि सप्तदशोऽध्यायः॥ 17 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-17-10 मा प्रमादं कृथा इति क.थ.पाठः॥ 7-17-16 श्वश्रूश्वशुरयोः। ज्येष्ठत्वाद्धृतराष्ट्रः पाण्डोः पितृसमस्तेन कुन्त्याः स श्वशुर इति॥ 7-17-22 क्षत्रधर्मे स्थितिं ह्युक्त्वा न प्रत्याख्यातुमर्हसि इति थ.पाठः। स्थितिं चोक्त्वा तस्याश्च्यवितुमिच्छसि इति झ.पाठः॥ 7-17-30 भद्रया सुभद्रया॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|